आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥
एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥
अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत्- यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम्-पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म। रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्। एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता।
एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता। एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः। तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, स संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः। न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः। न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः।